वांछित मन्त्र चुनें

त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यव॑: । त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभि॒: परि॑ष्कृतम् ॥

अंग्रेज़ी लिप्यंतरण

tvāṁ soma pavamānaṁ svādhyo nu viprāso amadann avasyavaḥ | tvāṁ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam ||

पद पाठ

त्वाम् । सो॒म॒ । पव॑मानम् । सु॒ऽआ॒ध्यः॑ । अनु॑ । विप्रा॑सः । अ॒म॒द॒न् । अ॒व॒स्यवः॑ । त्वाम् । सु॒ऽप॒र्णः । आ । अ॒भ॒र॒त् । दि॒वः । परि॑ । इन्दो॒ इति॑ । विश्वा॑भिः । म॒तिऽभिः॑ । परि॑ऽकृतम् ॥ ९.८६.२४

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:24 | अष्टक:7» अध्याय:3» वर्ग:16» मन्त्र:4 | मण्डल:9» अनुवाक:5» मन्त्र:24


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (पवमानं त्वां) सर्वपूज्य तुझको (स्वाध्यः) सुकर्म्मी लोग (विप्रासः) जो मेधावी हैं और (अवस्यवः) आपकी उपासना की इच्छा करनेवाले हैं, वे (अन्वमदन्) आपकी स्तुति करते हैं। (इन्दो) हे प्रकाशस्वरूप ! (त्वां) तुझको (सुपर्णः) बोधयुक्त उपासक (आभरत्) उपासना द्वारा ग्रहण करता है। तुम कैसे हो, (दिवस्परि) कि द्युलोक की भी मर्य्यादा को उल्लङ्घन करके वर्तमान हो और (विश्वाभिर्मतिभिः) सम्पूर्ण ज्ञानों से (परिष्कृतम्) अलंकृत हो ॥२४॥
भावार्थभाषाः - जो लोग विद्या द्वारा अपनी बुद्धि का परिष्कार करते हैं, वे ही परमात्मा की विभूति को जान सकते हैं, अन्य नहीं ॥२४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (पवमानं, त्वां) सर्वपूज्यं त्वां (स्वाध्यः) सुकर्म्माणः किम्भूताः (विप्रासः) मेधाविनः पुनः किम्भूताः (अवस्यवः) त्वदुपासनपरायणाः (अनु, अमदन्) भवन्तं स्तुवन्ति। (इन्दो) हे प्रकाशस्वरूप ! (त्वां) भवन्तं (सुपर्णः) सबोधोपासकः (आ, अभरत्) उपासनया गृह्णाति किम्भूतस्त्वं (दिवः, परि) द्युलोकस्य मर्य्यादामुल्लङ्घ्य स्थितः। अपरञ्च (विश्वाभिः, मतिभिः) निखिलज्ञानैः (परिष्कृतं) अलङ्कृतोऽसि ॥२४॥